०१८

शाक्त्यास्तरसपुरोडाशास्सत्रमासत ।

स गौरिवीतिश्शाक्त्यो मृगमहन् ।

तं तार्क्ष्यस्सुपर्ण उपरिष्टादभ्यवापतत् ।

तस्मा उपप्रत्यधत्त ।

तमब्रवीद् ऋषे । मा मेऽस्थः ।

श्वस्तनं ते वक्ष्यामि ।

अद्य वाव त्वं वेत्थ न श्व इति ।

तस्मा एतद्गौरिवीतमब्रवीत् ।

ततो वै स श्वस्तनमपश्यत् ।

तत्प्रजा वै श्वस्तनं पशव श्वस्तनं स्वर्गो लोक श्वस्तनम् ।

तद्यद्गौरिवीतं भवति । एतस्यैव सर्वस्यावरुद्ध्या एतस्योपाप्त्यै ।

वाचो वै रसोऽत्यक्षरत् ।

तद्गौरिवीतमभवत् । यदन्वहं गौरिवीतं भवति । अन्वहमेवैतद्वाचो रसं दधतो यन्ति ।

ये गौरिवीतमहीनेऽवसृजेयुस्तान्ब्रूयादश्वस्तना अप्रजसो भविष्यथेति ।

अश्वस्तना हैवाप्रजसो भवन्ति १८