०१७

तासु गौरिवीतम् ।

यथा ह वा इदमवसानदर्शाववसानं विन्दत एवमेतौ गौरिवीतस्योदासौ देवेभ्य श्वस्तनं विन्दतः ।

श्वस्तनं नोऽसदिति वै सत्रमासते ।

श्वस्तनं हैवैभ्यो भवति ।

एतद्ध वा अद्यश्वं देवानां यद्गौरिवीतम् ।

अक्षितमस्याद्यश्वं भवति य एवं वेद ।

अवसानदर्शो वा एतयोरुदासोऽन्यतरोऽवसाययितान्यः ।

स यथा प्र स्पष्टं तृणोदकमन्ववस्येत्तादृक्तत् ।

यथा ह वा इदं सोमप्रवाकस्सोमं प्राहैवमेतौ गैरिवीतस्योदासौ देवेभ्यस्सोमं प्राहतुः ।

प्रोक्तसोमो ह स तां रात्रिं वसति यस्मिन्नहनि गौरिवीतं भवति ।

अथो हैनं देवा ईक्षन्ते धावत श्वो यष्टेति ।

तद्यदेकाहे गौरिवीतं न कुर्वन्ति नेद्देवाल्ँ लापयामहा इति ।

यथा ह वा इदं वृक्षस्याक्रमणानि कृतान्येवमेतानि गौरिवीतस्याक्रमणानि कृतानि स्वर्गस्य लोकस्य समष्ट्यै ।

प्र स्वर्गं लोकमाप्नोति य एवं वेद ।

यथा ह वा इदमभीयायमुप विमोकं यायादेवमेतद्यद्गौरिवीतम् ।

तत्तथैव गेयम् १७