प्र सोमासो मदच्युत
इत्यार्भवस्य पवमानस्य प्रवतीर्गायत्र्यो भवन्ति राथन्तरेऽहन् ।
प्रणिनीषेण्यं वा एतदहः ।
प्रेति गायत्र्यै रूपम् ।
गायत्र्या एवैतद्रू पेण प्रयन्ति ।
ता मद्वतीर्भवन्ति ।
रसो वै मदः ।
धीतमिवैतद्यत्तृतीयसवनम् ।
तद्यदेता मद्वतीर्भवन्ति । रसमेवास्मिन्नेतद्दधति ।
षवैनदेतेन प्याययन्ति ।
तासु गायत्रमुक्तब्राह्मणम् ।
अथ संहितं द्व्यक्षरणिधनं प्रतिष्ठायै ।
द्विपाद्वै यजमानः प्रतिष्ठित्यै ।
अया पवस्व देवयुः । पवते हर्यतो हरिर्
इत्युष्णिक्ककुभौ भवतः ।
गायत्र्यौ रूपेण राथन्तरे सभं पूर्वस्यां विजित्या एव ।
अथाक्षरं पदनिधनमपरिष्टोभं राथन्तरम् ।
तस्माद्रा थन्तरेऽहन्क्रियते ।
प्रजापतिर्वा एतं यज्ञमसृजत यद्द्वादशाहम् ।
तस्य तृचैरन्यान्यहान्यकल्पन्तैकर्चैरेतत् ।
तदस्य समिवाप्लीयत ।
स एते सामनी अपश्यत् ।
ताभ्यामेनद्यथा शाङ्कुभ्यां चर्म विहन्यादेवमेवाभ्यामेतदहर्व्यहन् ।
आश्वेन पुरस्तादाक्षारेणोपरिष्टात् ।
तद्यदेते सामनी भवतोऽह्न एव धृत्यै ।
प्र सुन्वानायान्धस
इति प्रवतीरनुष्टुभो भवन्ति राथन्तरेऽहन् ।
प्रणिनीषेण्यं वा एतदहः ।
प्रेति गायत्र्यै रूपम् ।
गायत्र्या एवैतद्रू पेण प्रयन्ति १६