अथ सोमसाम ।
सोमो वै राजा सधमादमिवान्याभिर्देवताभिरासीत् ।
सोऽकामयत सर्वेषां देवानां राज्याय सूयेयेति ।
स एतत्सामापश्यत् ।
तेनास्तुत
ततो वै स सर्वेषां देवानां राज्यायासूयत ।
सूयते स्वानां श्रेष्ठतायै य एवं वेद ।
तेभ्यस्तिरोऽभवत् ।
तदन्वैच्छन् ।
तेभ्य एतेन रूपेणादृश्यत यदेतच्चन्द्र मसः ।
तमभिसमगच्छन्तादर्श्यदर्शीति ।
तस्माद्यदा दर्शयतेऽथाभिसङ्गच्छन्तेऽदर्श्यदर्शीति ।
तमेतदभ्यषिञ्चन्त ।
स एतदभवत् ।
तदेतच्छ्रीस्सवस्साम ।
अश्नुते श्रियं गच्छति राज्यं य एवं वेद ।
यदु सोमो राजा अपश्यत्तस्मात्सोमसामेत्याख्यायते ।
अथ वज्रम् ।
वज्र आङ्गिरसः पशुकामस्तपोऽतप्यत ।
स एतत्सामापश्यत्तेनास्तुत ।
स एतामिळामुपैत् ।
पशवो वा इळा ।
ततो वै स पशूनवारुन्धत ।
तदेतत्पशव्यं साम ।
अव पशून्रुन्द्धे बहुपशुर्भवति य एवं वेद ।
यदु वज्र आङ्गिरसोऽपश्यत्तस्माद्वज्रमित्याख्यायते ।
अथ यौधाजयं त्रिणिधनं सवनानां कॢप्त्यै ।
अथौशनमन्त्यं सामान्त्येन साम्नान्त्यं स्वर्गं लोकमश्नवामहा इति ।
अथ रथन्तरम् ।
ब्रह्म वा अग्निष्टोमो । ब्रह्म रथन्तरम् ।
ब्रह्मण्येवैतत्प्रतितिष्ठन्तो यन्ति ।
अथ वामदेव्यम् ।
पशवो वै वामदेव्यम् ।
पशुमन्त एव भवन्त्येनेन तुष्टुवानाः ।
अथ नौधसम् ।
सलोके वै कालेयं च रथन्तरं च १५