अथाश्वम् ।
प्रजापतिः प्रजा असृजत ।
ता आश्वेनैवाश्वो भूत्वासृजत ।
यदाश्वेनाश्वो भूत्वासृजत तदाश्वस्याश्वत्वम् ।
तत्प्रजननं साम ।
प्रजननेऽहन्क्रियते ।
प्रजया पशुभिर्जायते य एवं वेद ।
तस्मादु हैतत्सामैतस्मादह्नो नान्तरित्यम् ।
प्रजननं वा एतत्साम ।
प्रजननमेतदहः ।
प्रजनन एवैतत्प्रजननं क्रियते ।
तद्वेवाचक्षतेऽश्वस्य सामुद्रे रिति ।
अश्वो वै सामुद्रि रकामयताव पशून्रुन्धीय भूमानं पशूनां गच्छेयमिति ।
स एतत्सामापश्यत् ।
तेनास्तुत ।
ततो वै स पशूनवारुन्ध भूमानं पशूनामगच्छत् ।
तदेतत्पशव्यं साम ।
अव पशून्रुन्द्धे । भूमानं पशूनां गच्छति य एवं वेद ।
यदश्वस्सामुद्रि रपश्यत्तस्मादाश्वमित्याख्यायते ।
अथो आहुराश्वेन वै देवा अश्वा भूत्वा स्वर्गं लोकमायन्निति ।
तद्वेवाश्वस्याश्वत्वम् ।
तद्वा अस्य स्वर्ग्यम् ।
अश्नुते स्वर्गं लोकं य एवं वेद १४