प्र सोमासो विपश्चितः । प्र सोम देववीतये ।
प्र तु द्र व परि कोशं नि षीदे
ति प्रवतीर्भवन्ति राथन्तरेऽहन् ।
प्रणिनीषेण्यं वा एतदहः ।
प्रेति गायत्र्यै रूपम् ।
गायत्र्या एवैतद्रू पेण प्रयन्ति ।
यत्पञ्चसामा विलॐ तदसमृद्धम् ।
प्राणोऽपानो व्यानस्स तृचः ।
तं विच्छिन्दन्ति ।
आत्मानं प्रजां जायामिमाल्ँ लोकांस्तद्विच्छिन्दन्ति ।
त्रीणि सामानि ।
तत्क्ळ्प्तं त्रिवृत्त्रिषामा ।
अथाश्वं पदनिधनमपरिष्टोभं राथन्तरम् ।
तस्माद्रा थन्तरेऽहन्क्रियते ।
इळावान्पवमानस्सोमसाम्ना क्रियते ।
पञ्चसामा ह खलु वै संवत्सरं यन्तुमर्हति ।
तद्यत्षडक्षरणिधनं यौधाजयं भवति षड्वा ऋतवस्संवत्सरस्यैव युक्त्यै ।
अभि द्रो णानि बभ्रव
इत्यभीति भवति रथन्तरस्य रूपम् ।
राथन्तरमेतदहः ।
सुता इन्द्रा य वायवे वरुणाय मरुद्भ्य
इति मरुत्वतीर्भवन्ति ।
मरुत्वद्वै मध्यन्दिनस्य रूपम् ।
मध्यन्दिनस्यैव तद्रू पान्न यन्ति ।
तासु गायत्रमुक्तब्राह्मणम् १३