०१२

ब्रह्म वा अग्निष्टोमः ।

ब्रह्म प्रायणीयमहः ।

एषा वै यज्ञस्य मात्रा यदग्निष्टोमः ।

यैव यज्ञस्य मात्रा तयैवैतत्सत्र आक्रमन्ते यादृक्प्रवयणत स्पर्शस्तादृगुपप्रार्ञ्जनतः ।

तस्मादग्निष्टोमेनैव प्रयन्त्य् । अग्निष्टोमेनोद्यन्ति ।

मनो वै पूर्वमथ वाक् ।

मनो वै बृहद्वाग्रथन्तरम् ।

प्रत्नं वै बृहदुप रथन्तरम् ।

तद्यदेताः प्रत्नवतीश्चोपवतीश्च भवन्ति बृहद्र थन्तरे एवैतत्सत्राय युज्येते ।

प्रेति च वा एति च गायत्र्यै रूपम् ।

तद्यत्प्रेति चेति च भवति गायत्र्या एवैतद्रू पेण प्रयन्ति न वैता भवन्ति न वा हस्यैव युक्त्या ऋचर्चैवाहर्युज्यते यथा नद्धयुगस्य शम्या अवदध्यात्तादृक्तत् ।

तदाहुर्वीव वा एते प्राणैरृध्यन्ते ये प्रायणीयस्याह्नस्तृचान्विच्छिन्दन्तीति ।

सलक्ष्माणो भवन्ति सलक्ष्माणो वै प्राणाः प्राणानामेव सन्तत्या अव्यवच्छेदाय ।

अग्न आ याहि वीतये । आ नो मित्रावरुणा ।

आ याहि सुषुमा हि त । इन्द्रा ग्नी आ गतं सुतम्

इत्या याह्या याहीत्याज्यानि भवन्ति ।

आ याह्या याहीति युक्तानां पुरस्तात्प्रयन्ति ।

यथा युक्तानां पुरस्तादा याह्या याहीति प्रेयात्तादृक्तत् ।

त्रिवृत्स्तोमो भवति ।

ब्रह्म वै त्रिवृत् ।

ब्रह्मण्येवैतत्प्रतितिष्ठन्तो यन्ति १२