दुग्धोपसद्यं तदित्याहुः ।
न तत्र दुग्धोपसद्यमस्तीति ब्रूयात् ।
वाग्वै रथन्तरं । वागाश्विनं । कुतो वा क्षेष्यत इति ।
एतदु ह वा एकच्छन्दो दुग्ध यद्वाग्यदीजाना अनीजानाः ।
तदु वा आहुः
पवस्व वाचोऽग्रिय । उपास्मै गायता नरः ।
पवमानस्य ते कव
इति प्रतिपदो भवन्ति ।
पवमाने रथन्तरं प्रोहन्ति ।
बृहत्पृष्ठं भवति ।
जराबोधीयेनाश्विभ्यां स्तुवन्ति ।
रुद्र स्य वा एतद्देवस्य साम यज्जराबोधीयम् ।
एतेन वै रुद्रो देवः पशूनामैश्वर्यमाधिपत्यमगछत् । तद्येन रुद्रो देवः पशूनामैश्वर्यमाधिपत्यमगच्छत्तेन पशूनामैश्वर्यमाधिपत्यं गच्छामेति ।
तदाहुः क्रूरमशान्तमीश्वरो यजमानस्य पशूनभिमन्तोरिति ।
तदु वा आहुस्सर्वा वा एषा वाग्ब्रह्म यदाश्विनम् ।
सर्वयैवैनदेतद्वाचा ब्रह्मणाश्विनेन शमं यन्तीति ।
और्ध्वसद्मनमापिशर्वरेषु प्रोहन्ति ।
और्ध्वसद्मनेन वै देवा असुरानेभ्यो लोकेभ्यो नुत्वा स्व आयतने सत्रमासत ।
और्ध्वसद्मनेनैव द्विषन्तं भ्रातृव्यमेभ्यो लोकेभ्यो नुत्वा स्व आयतने सत्रमास्ते य एवं वेद ११