गोष्टोममाहरेत वीर्यकामः ।
इन्द्रि यं वै वीर्यं पञ्चदशः ।
यावज्जीवन्ति तावद्वीर्यावन्तो भवन्ति ।
ईश्वरा ह तु प्रमायुका भवितोः ।
प्राणेभ्यो हि यन्ति ।
त्रिवृतो य ईजानाः क्ळ्प्तं तेषामथ येऽनीजाना अक्ळ्प्तं तेषाम् ।
यदि बृहत्पृष्ठं भवति रथन्तरेणाश्विभ्यां स्तुवन्ति ।
इदं वै रथन्तरमदो बृहत् ।
अनाक्रम्यास्याममुष्यामाक्रमन्ते ।
ते प्रमायुका भवन्ति ज्यायुका वा ।
अथो यथा परेण बिलेन प्रतिदधीत तद्वै परैव सिच्यते न पिबति ।
तादृग्यदि रथन्तरं पृष्ठं भवति रथन्तरेणाश्विभ्यां स्तुवन्ति १०