क्त्च्प्राणः पूर्वो वैश्वानरोऽपान उत्तरोऽथ यदस्ति यत्सत्रं तदितराण्यहानि ।
गायत्री वा एषा ज्योतिष्पक्षाय द्वादशाहः ।
पक्षावतिरात्रावग्निष्टोमौ चक्षुषी बाह्यावतिरात्रावन्तरा । वग्निष्टोमौ ।
तस्मादन्तरे अक्ष्योः कनीनिके ।
अथ यान्यष्टावहानि सा गायत्री ।
तया देवा स्वर्गं लोकमायन् ।
गच्छति स्वर्गं लोकं य एवं वेद ।
जामि द्वादशाहस्यास्तीत्याहुः ।
यदेतान्यष्टावहानि मध्य उक्थ्यानीति । न तत्र जाम्यस्तीति ब्रूयात् ।
पशवो वा उक्थानि ।
पशूनेवैतत्पशुभिस्समाकरोति ।
भूयो वै पशवः पशुभिस्समाकृताश्शोभन्त इति ।
ज्योतिष्टोमोऽतिरात्रो विराजं सम्पद्यते ।
संवत्सरो विराट्प्रजननं संवत्सरः ।
द्वे स्तोत्रिये पूर्वस्याह्नो विराजमतीतो । द्वे उत्तरस्य ।
ते ये पूर्वस्याह्नो विराजमभितो बृहद्र थन्तरे ते युक्ते यज्ञं वहतोऽथ ये उत्तरस्य विराजस्स दोहः प्रतिष्ठितिः ।
आयुष्टोममाहरेत स्वर्गकामः ।
ऊर्ध्वा स्तोमा यन्त्यनपभ्रंशाय ९