क्त्च्दशाहेन वै प्रजापतिः प्रजा असृजत ।
ता अस्य सृष्टा विषूचीर्विपरौप्यन्त ।
स एतौ वैश्वानरावतिरात्रावपश्यत् ।
ताभ्यामेना उभयतः पर्यगृह्णादनेनेति उपरिष्टादमुत्क्ता ।
ता एताभ्यामेवावारयत ।
यद्विश्वं भूतमवारयत तद्वैश्वानरयोर्वैश्वानरत्वम् ।
प्रजापतिरेष यदुद्गाता ।
स एतद्दशाहेनैव प्रजास्सृजते ।
ता एताभ्यामेव वैश्वानराभ्यां वारयतेऽनेनेत उपरिष्टादमुना प्रजानां धृत्या अपरावापाय ।
नास्य वित्तं परोप्यते य एवं वेद ।
प्राणो वै पूर्वो वैश्वानरोऽपान उत्तरः ।
प्राणापानाभ्यामेवैतत्समृद्ध्योदृचमश्नुवते ।
तस्मादु हैतयो स्तोत्रेण सुप्यात्प्राणान्नेत्संलुम्पानीति ।
तदु वा आहुः को हास्वप्नस्येशे ।
यद्वाव प्राणो जागर्ति तदेव जागरितम् ।
काममेव स्वप्तव्यमिति ।
तदाहुर्यन्नु परम एष यज्ञक्रतुर्यदतिरात्रः कस्मादेतं परमं सन्तं प्रथममुपयन्तीति ।
यज्ञक्रतूनामेवाप्त्या इति ब्रूयात् ।
एते वै सर्वे यज्ञक्रतवो यदग्निष्टोम उक्थोऽतिरात्रः ।
तानेवैतेनाप्नोति यो वा अग्निष्टोमेन दशाहं कल्पमानं वेद ।
कल्पतेऽस्मै प्रातस्सवनेनैव प्रथमस्त्रियहः । कल्पते माध्यन्दिनेन द्वितीयस् । तृतीयसवनेनतृतीयोऽग्निष्टोमसाम्नैव दशममहः कल्पते ।
कल्पतेऽस्मै य एवं वेद ८