क्त्च्छन्दांस्येवास्यै तुरीयं वहन्ति ।
तामेतां प्रतीचीं पराचीं तिरश्चीमन्नाद्यायासते ।
तस्मात्पशुं प्रत्यञ्चं पराञ्चं तिर्यञ्चमुपजीवन्ति ।
प्रजापतिर्जायमान एव सह पाप्मनाजायत ।
सोऽकामयताप पाप्मानं हनीयेति ।
स एतं व्यूढछन्दसं द्वादशाहं यज्ञमपश्यत् ।
तमाहरत् ।
तेनायजत ।
तेन विष्वञ्चं पाप्मानं व्यौहत ।
स यः पाप्मगृहीत इव मन्यते स एतेन व्यूढछन्दसा द्वादशाहेन यजेत ।
विष्वञ्चं हैव पाप्मानं व्यूहते ।
प्रजा ह तु संसर्पका इव भवन्ति ।
तद्यद्गायत्र्याण्युत्तराण्याज्यानि भवन्ति प्रजानामेवासंसर्पाय ।
मयूखो वा एष वा धरुणो यद्गायत्री ।
तस्यां द्वादशाहो धृतोऽसंसर्पाय ७