००६

क्त्च्गायत्रमुखो वै प्रथमस्त्र्यहः ।

तस्मादयमग्निरूर्ध्वो दीदाय ।

गायत्रमध्यो द्वितीयस्त्रियहः ।

तस्मादयं वायुस्तिर्यङ्पवते ।

गायत्रोत्तमस्तृतीयस्त्रियहः ।

तस्मादसावर्वाङादित्यस्तपति ।

तेजसा वै गायत्री प्रथमं त्रियहं दाधार । पदैर्द्वितीयम् । अक्षरैस्तृतीयम् ।

त्रिवृद्वै गायत्री तेजः ।

त्रिवृत्प्रथममहः ।

तेन प्रथमस्त्रियहो धृतः ।

त्रिपदा गायत्री । त्रियहो मध्ये । तेन द्वीतीयस्त्रियहो धृतः ।

चतुर्विंशत्यक्षरा गायत्री । चतुर्विंशं सप्तममहस् । तेनैव तृतीयस्त्रियहो धृतः ।

कथं गायत्री द्वादशाहमित्याहुः ।

यथारान्नेमिस्सर्वतः पर्येत्य् । एवं गायत्री द्वादशाहं सरतः पर्येत्यविस्रंसाय ।

यथा रथनाभावरा धृता एवं गायत्र्यां द्वादशाहो धृतोऽसम्प्लवाय ।

मयूखो वा एष वा धरुणो यद्गायत्री ।

तस्यां द्वादशाहो धृतोऽसंव्याथाय ।

अनुष्टुब्वा एषा प्रतायते यद्द्वादशाहः ।

अष्टाभिर्वा अक्षरैरनुष्टुप्प्रथममहरुद्यच्छत्य् । एकादशभिर्द्वितीयं । द्वादशभिस्तृतीयम् ।

अक्षरमेव त्रियक्षरं परिशिष्यते ।

तदेवोत्तरं त्रियहमनुविदधाति ६