क्त्च्यो वै छन्दसां स्वाराज्यं वेद गच्छति स्वाराज्यं प्र स्वाराज्यं लोकमाप्नोति ।
बृहती वै छन्दसां स्वराट् ।
तामेतां प्रतीचीं पराचीं तिरश्चीमन्नाद्यायासते ।
तस्मात्पशुं प्रत्यञ्चं पराञ्चं तिर्यञ्वमुपजीवन्ति ।
एतावद्वाव संवत्सर इन्द्रि यं वीर्यं यद्द्वादशाहो द्वादश पौर्णमासीर्द्वादशाष्टका द्वादशामावास्यास् । तदेवैतेनावरुन्द्धे ।
यो वै विराजमृतुप्रतिष्ठितां वेदर्तून्विराजि प्रतिष्ठितान् । गच्छति प्रतिष्ठामवान्नाद्यं रुन्द्धे ।
त्रिंशदक्षरा विराट् ।
षडृतवः ।
एतद्वै विराडृतुषु प्रतितिष्ठत्य् । ऋतवो विराजि ।
गच्छति प्रतिष्ठामवान्नाद्यं रुन्द्धे य एवं वेद ।
अनुष्टुभं वावैतामासते यद्द्वादशाहम् ।
द्वात्रिंशदक्षरानुष्टुप् ।
चतुष्पदाः पशवः ।
वागनुष्टुप् ।
वाचा पशून्दाधार ।
तस्मात्पश्वो वाचा सिद्धा वाचाहूता आयन्ति ५