००४

क्त्च्तेऽयजन्त । ते मासाश्चत्रवश्च संवत्सरे प्रत्यतिष्ठन् । संवत्सर ऋतुषु च मासेषु च ।

तस्मादाहुस्समावन्मात्रियेवर्द्धिर्यं च याजयन्ति ये च याजयन्तीति ।

समावन्मात्रियेव ममानेनर्द्धिरिति हेक्षेत ।

यथैवास्यैवमेव ममेति ।

तेन हैतेनैक एव यजेत ।

एको ह्येव प्रजापतिरार्ध्नोत् ।

यद्यु भूयांसो यजेरन्द्वादश वा त्रयोदश वा यजेरन्निमे चत्वार इमे चत्वार इमे चत्वारोऽयमेक इति निर्मिमीरन् ।

यं कामयेरन्निमं यज्ञस्य व्यृद्धिरन्वियादिति तं हैव यज्ञस्य व्रृद्धिरन्वेति ।

यद्यु भूयांसो यजेरन्षोडश वा सप्तदश वा यजेरन्निमे चत्वार इमे चत्वार इमे चत्वार इमे चत्वारोऽयमेक इति निर्मिमीरन् । यं कामयेरन्निमं यज्ञस्य व्रृद्धिरन्वियादिति तं हैव यज्ञस्य व्यृद्धिरन्वेति ।

यद्यु भूयांसो यजेरंश्चतुर्विंशतिर्वा पञ्चविंशतिर्वा यजेरन्निमे पञ्चेमे पञ्चेमे पञ्चेमे पञ्चेमे चत्वारोऽयमेक इति निर्मिनीरन् । यं कामयेरन्निमं यज्ञस्य व्यृद्धिरन्वियादिति तं हैव यज्ञस्य व्यृद्धिरन्वेति ।

सर्व इतर ऋध्नुवन्ति ।

यो वै सत्रस्य गृहपतिं च गृहपत्नीं च वेदाश्नुते गार्हपत्यं प्र गार्हपत्यमाप्नोति ।

संवत्सरो वाव गृहपतिरियमेव गृहपत्नी ।

अश्नुते गार्हपत्यं प्र गार्हपत्यमाप्नोति य एवं वेद ४