००३

क्त्च्पुरो इन्द्रा य देवा श्रैष्ठ्याय नातिष्ठन्त ।

स प्रजापतिमुपाधावत्प्र म इमा यच्छेति ।

तस्मा एते द्वे प्रायच्छत्पौर्णमासीं चामावास्यां च ।

अस्मिन्नेवाष्टकामधत्त ।

ततो वा इन्द्रा य देवा श्रैष्ठ्यायातिष्ठन्त ।

तिष्ठन्तेऽस्मै स्वा श्रैष्ठ्याय य एवं वेद ।

तस्मादेतां रात्रिं सर्व एव सुहिता वसन्ति ।

पितर्ह्येवैतां प्रजापतौ वसन्ति ।

तस्मादेतां रात्रिं न जुहुयाद् । यज्जुहुयान्न ब्रूयात् ।

अनिरुक्तो वै प्रजापतिः ।

स यदेव तत्र त्रिर्विलां कुरुते यदस्य गृहे सुहिता वसन्ति सा हैवास्यै समृद्धिः ।

ते मासाश्चर्तवश्चाब्रुवन्येन नः पिता प्रजापतिर्यज्ञेनेष्ट्वारात्सीत्तेन यजामहा इति ।

ते तमाहरन्त ।

स प्रजापतिरैक्षत यदि वा इदमिमे समापयन्ति यथा वा अहमिदमस्म्येवमिमे तर्हि भवन्तीति ।

तानब्रवीन्मयैव गृहपतिना दीक्षध्वमिति ।

तं वै त्वास्माभिराचक्षान्ता इत्यब्रुवन् ।

मयो युष्मानिति ।

तस्मान्मासैश्चतुर्भिश्च संवत्सरमाचक्षते । संवत्सरेणर्तूंश्च मासांश्च ।

तस्मात्पुत्रेण पितरमाचक्षते । पित्रा पुत्रान् ।

षतेन गृह्यांश्चक्षते य एवं वेद ३