००२

क्त्च्स एवैष प्रजापतिस्संवत्सरोऽभवत् ।

स इदं सर्वं स्तब्ध्वा व्याप्यातिष्ष्थत् ।

स षक्षत कया स्वधया केनान्नाद्येन कयोर्जेदमयं व्यापदिति ।

तस्मिन्नेतां स्वधामूर्जमन्नाद्यमक्षितिं पर्यपश्यद्द्वादश पौर्णमासीर्द्वादशाष्टका द्वादशामावास्याः ।

तामवारुरुत्सत ।

सैनमब्रवीन्न मानभिश्रान्तामवरोत्स्यस इति ।

स तपोऽतप्यत ।

स एतं द्वादशाहं यज्ञमपश्यत् ।

तमाहरत ।

सोऽकामयत दीक्षितं मा दीक्षिता याजयेयुरिति ।

स मासांश्चर्तूंश्चाब्रवीद्याजयत मेति ।

तं मासा नाब्रुवन् ।

स वा अस्मास्वेव सत्या भुनजासा इति ।

तस्मादेता मास्येव सर्वाः पौर्णमास्यष्टकामावास्याः ।

तदृतवः प्रसुते पश्चेवान्वबुध्यन्त प्र हैभ्योऽदादिति ।

तमब्रुवन्नस्मभ्यमपि दक्षिणां प्रयच्छेति ।

तेभ्योऽन्नाद्यं प्रायच्छत् ।

तदेतद्यथर्त्वन्नाद्यं पच्यते ।

स दीक्षाभिरेव पौर्णमासीरवारुन्धोपसद्भिरष्टकाः प्रसुतेनामावास्याः ।

स यो हैवं विद्वान्द्वादशाहेन यजत एतामेव स्वधामूर्जमन्नाद्यमक्षितिमवरुन्द्धे ।

प्रत्यृतवोऽगृह्णन्न मासाः प्रतिग्रहमकामयन्त ।

तस्मान्मासा आख्याततरा इव ।

आख्याततर उप ह्येवाप्रतिगृह्णन्भवति ।

तस्मादृतवो ज्यायांसः ।

ज्यायान्ह्येव प्रतिगृह्णन्भवति ।

ता ह वा एतास्तिस्र एव रात्रयः पौर्णमास्यष्टकामावास्याः २