००१

तृतीयो भागः

प्रजापतिर्वावेदमग्र आसीत् ।

सोऽकामयत बहु स्यां । प्रजायेय । भूमानं गच्छेयमिति ।

स तपोऽतप्यत ।

स आत्मन्नृत्वियमपश्यत् ।

ततस्त्रीनृतूनसृजतेमानेव लोकान् ।

यदृत्वियादसृजत तदृतूनामृतुत्वम् ।

यदृत्वियादजनयत्तस्मादृत्विज इत्याख्यायन्ते ।

स यत्प्रथममतप्यत ततो ग्रीष्ममसृजत ।

तस्मात्स बलिष्ठं तपति ।

स यत्प्रथममतप्यत ततो ग्रीष्ममसृजत ।

तस्मात्स बलिष्ठं तपति ।

यद्द्वितीयमतप्यत ततो वर्षा असृजत ।

तस्मात्ता उभयं कुर्वन्त्या च तपन्ति वर्षन्ति च ।

यत्तृतीयमतप्यत ततो हेमन्तमसृजत ।

तस्मात्स शीततम इव ।

त्रीन्सतोऽभ्यतप्यत ।

तान्द्वेधा व्यौगत् ।

ते षडृतवोऽभवन् ।

स ग्रीष्मादेव वसन्तं निरममीत । वर्षाभ्यश्शरदं । हेमन्ताश्छिशिरम् ।

तस्मादेत ऋतूनामुपश्लेषा इव निर्मिता हि ।

षट्सतोऽभ्यतप्यत ।

तान्द्वेधा व्यौहत् ।

ते द्वादश मासा अभवन् ।

द्वादश सतोऽभ्यतप्यत ।

तान्द्वेधा व्यौहत् ।

ते चतुर्विंशतिरर्धमासा अभवन् ।

चतुर्विंशतिं सतोऽभ्यतप्यत ।

स षक्षत यदि द्वेधा व्यूहिष्यामि । न विभविष्यन्ति । हन्त । निर्मिमा इति ।

तेभ्यस्सप्त च शतानि विंशतिं चाहोरात्राणि निरममीत ।

स इदं सर्वं व्यकरोत् ।

यथा ह वै हिरण्यमविकृतमेवमिदं ततः पुरा ।

स सर्वमधि हास्मिञ्छिल्पानि गम्यन्ते विकृतानि चाविकृतानि च य एवं वेद १