४४२

अविदमिति होवाचेमा रसायामन्तर्वलेनापिहिताः ।

ता यथा मन्यध्वमेवमाजिहीर्षतेति ।

तां ह तदिन्द्र उवाचान्नादीमरे ते सरमे प्रजां करोमि या नो गा अन्वविद इति ।

ते हैते विदर्भेषु माचलास्सारमेयाः ।

अपि ह शार्दूलं मारयन्ति ।

ते देवा एतमभिप्लवं समभरन् ।

तेनैना अह्ब्यप्लवन्त ।

यदभ्यप्लवन्त तदभिप्लवस्याभिप्लवत्वम् ।

तेऽग्निनैव वलमभ्यौषन्वज्रेणाभिन्दन् ।

स य एष पुरस्ताज्ज्योतिस्सोऽग्निरथ यत्पञ्चदशं गोर्बहिष्पवमानं स वज्रः ।

ता आयुषैवायुवत ।

यदायुषैवायुवत तदायुष आयुष्ट्वम् ।

ता एतेनैव ज्योतिषोभयतः पर्यौहन् ।

त एते चत्वारो मध्य उक्थ्या भवन्ति ।

पशवो वा उक्थानि ।

तेषां सहस्रं स्तोत्र्याः ।

ब्रह्म वै ज्योतिरग्निष्टोमः ।

ता एतेनैव ब्रह्मणा ज्योतिषोभयतः परिगृह्योदाहरन् ।

ते य एवं विद्वांसोऽभिप्लवमुपयन्ति सहस्रसनयो हैवोत्थिता भवन्ति ।

तदाहुर्यदेष चतुरहो मध्ये व्यतिषक्तो गौरायुर्गौरायुरित्यथ कस्माज्ज्योतिषी विपर्यूढे इति ।

मिथुनत्वाय प्रजननायेति ह ब्रूयात् ।

प्र मिथुनेन जायते य एवं वेद ४४२