४४१

ते सरमामब्रुवन्सरम इमा नस्त्वं गा अन्विच्छेति ।

तथेति सा हानुप्रससार ।

सा ह रसामाजगाम ।

एषा ह वै सा रसा यैषार्वाक्समुद्र स्य वापायती ।

तां होवाच प्लोष्ये वा त्वा गाधा वा मे भविष्यसीति ।

प्लवस्व मेति होवाच न ते गाधा भविष्यामीति ।

सा हावाच्य कर्णौ प्लोष्यमाणाससार ।

सा हेक्षां चक्रे कथं नु मा शुनी प्लवेत हन्तास्यै गाधासानीति ।

तां होवाच मा मा प्लोष्ठा गाधा ते भविष्यामीति ।

तह्तेति ।

तस्यै ह गाध आस ।

सा ह गाधेनातिससार ।

ता हान्वाजगाम रसायामन्तर्वलेनापिहिताः ।

तस्यै हान्वागतायै तथैव सर्पिः क्षीरमामिक्षां दधीत्येतदेवोपनिदधुः ।

सा होवाच नाहमेतावदप्रिया देवानां गा अविदं यद्वोऽश्नीयाम् ।

त उ वै देवानां स्तेयं कृत्वा चरथैतासां वा अहं गवां पदवीरस्मि ।

न मा लापयिष्यध्वे नेन्द्र स्य गा उपहरिष्यध्व इति ।

सा हानाशुष्युवास ।

सा ह जराय्वपास्तं विवेद ।

तद्ध चखाद ।

तां हैक उपजगौ त्यमिव वै घ्नती सरमा जारु खादतीति ।

तदिदमप्येतर्हि निवचनं त्यमिव वै घ्नती सरमा जारु खादतीति ।

जरायु ह सा तच्चखाद ।

सा ह पुनराससार ।

तां होचुस्सरमेऽविदो गा इति ४४१