४४०

अथ ह वै पणयो नामासुरा देवानां गोरक्षा आसुः ।

ताभिरहापातस्थुः ।

ता ह रसायां निरुध्य वलेनापिदधुः ।

ते देवा अलिक्लवमूचुस्सुपर्णेमा नो गा अन्विच्छेति ।

तथेति ।

स हानुप्रपपात ।

ता हान्वाजगाम रसायामन्तर्वलेनापिहिताः ।

तस्मै हान्वागताय सर्पिः क्षीरमामिक्षां दधीत्येतदुपनिदधुः ।

तस्य ह सुहित आस ।

तं होचुस्सुपर्णैष एव ते बलिर्भविष्यत्येतदन्नं मा नः प्रवोच इति ।

स ह पुनरापपात ।

तं होचुस्सुपर्णाविदो गा इति ।

का कीर्तिश्चिद्गवामिति होवाच ।

एषैव कीर्तिर्गवामिति तस्य हेन्द्रो गलमुत्पीळयन्नुवाच गोष्वेवाह किल तवोषुषो मुखमिति ।

स ह दधिद्र प्सं वामिक्षां वोदास ।

सोऽयं बभूव योऽयं वसन्ता भूमिकपठुर्जायते ।

तं ह तच्छशापाश्लीलं जाल्म ते जीवनं भूयाद्यो नो गा अनुविद्य ता न प्रावोच इति । तस्य हैतद्ग्रामस्य जघनार्धे यत्पापिष्ठं तज्जीवनम् ४४०