४३९

अथैते ज्योतिर्गौरायुरिति स्तोमा भवन्ति ।

गौरायुरस्कन्दत् ।

ततो ज्योतिरजायत ।

अयं वै लोक आयुरसौ गौरिदमेवान्तरिक्षं ज्योतिः ।

तमेतं पुरस्तादकुर्वातां यथा पुत्रमेवम् ।

इतो वा अयमूर्ध्वो लोकोऽर्वाङसावमुतः ।

तदिदमेनयोः पुरस्ताज्ज्योतिः पर्यूढम् ।

तेन पश्यामः ।

तौ योगमुपप्रयन्तावन्तमभि ज्योतिर्व्युदौहताम् ।

स यथा पितरौ पुत्रं पूर्वं यन्तं पश्चादन्वियातां तादृक्तत् ।

तदेतन्मिथुनी स्तोमा भवन्ति यद्युज्यन्ते ।

मध्ये वै जायापत्योः पुत्रश्शेते ।

तौ यथा मिथुनीभविष्यन्तावित्थाद्वेत्थाद्वा पुत्रं परिहरेयातां तादृगेवैतत् ।

त एत ऊनातिरिक्ता मिथुनाः प्रजनय स्तोमाः ४३९