४३८

तस्यैतौ श्लोकावयुजो युक्ताः प्रवहन्त्यग्रे ततो युग्मन्तो अनुसंवहन्ति

त एकं छन्दोभिस्संवत्सरमा द्वादश परिसर्पन्ति मासः

द्वादशस्य मास उत्तमेऽहन्षट्त्रिंशं ह दध्रिरे व्यावृता एकं

ततो युग्मभिर्व्ययुञ्जताध्यन्य आयन्सुवरन्ये परायन्

इति ।

तस्य द्वादश स्तोत्राणि भवन्ति ।

तेनाग्निष्टोमः ।

तान्यु एव द्वादश सन्ति पञ्चदश चतुर्विंशानि स्तोत्राणि भवन्ति ।

तेनोक्थ्यः ।

स वा एषोऽग्निष्टोमस्सन्नुक्थ्य उक्थ्यस्सन्नग्निष्टोमः ।

उभौ ह तौ कामावुपाप्नोति यश्चाग्निष्टोमे यश्चोक्थ्ये य एवं वेद ४३८