तस्य बृहत्पृष्ठं भवति वामदेव्यं मैत्रावरुणसाम श्यैतं ब्रह्मसाम ।
अदो वै बृहदन्तरिक्षं वामदेव्यमिदमेव श्यैतम् ।
रथन्तरस्यैषा तनूः ।
सैषा समीची क्ळ्प्ति स्वर्ग्या ।
तया हैतया कॢप्त्या सम्यञ्च एव स्वर्गं लोकं रोहन्ति ।
सम्यञ्चो वै प्राणापानव्यानाः ।
आ च परा च सञ्चरन्त्ययातयामानः ।
आयुष्मन्तो ह भवन्त्येनया तुष्टुवानाः ।
तस्य द्वयानि स्तोत्राणि भवन्ति चतुर्विंशान्येकानि षट्त्रिंशान्येकानि ।
ततो यानि चतुर्विंशानि चतुर्विंशत्यर्धमासो वै संवत्सरोऽर्धमासश एव तैस्संवत्सरमाप्नुवन्ति ।
अथ यानि षट्त्रिंशानि षट्त्रिंशदक्षरा वै बृहती ।
बृहती स्वर्गो लोकस्साम्राज्यं बृहत्यामेव तत्स्वर्गे लोके साम्राज्ये प्रतितिष्ठन्तो यन्ति ।
अथो हैषामेतेनैव षट्त्रिंशेन स्तोमेन पर्वशस्संवत्सर आरब्धो भवति ।
द्वादश वै संवत्सरस्य पौर्णमासीर्द्वादशाष्टका द्वादशामावास्याः ।
तदेवैतेन षट्त्रिंशेन स्तोमेन पर्वशस्संवत्सरमारभन्ते ४३७