४३६

अथैतच्चतुर्विंशमारम्भणीयमहः ।

तस्यैषोर्ध्वा क्ळ्प्ति स्वर्ग्या ।

तस्य रथन्तरं माध्यन्दिने भवत्यथ दैर्घश्रवसमथ नौधसम् ।

इदं वै रथन्तरम् ।

अन्तरिक्षं दैर्घश्रवसम् ।

वामदेव्यं ह्येतन्निधानेन ।

अद एव नौधसम् ।

बृहतो ह्येषा तनूः ।

सैषोर्ध्वा क्ळ्प्ति स्वर्ग्या ।

तया हैतया कॢप्त्योर्ध्वा एव स्वर्गं लोकं रोहन्ति ।

तस्य हैतस्याह्न एके रथन्तरमेव पृष्ठं कुर्वन्ति यथाइवातिरात्रस्य रथन्तरं पृष्ठं भवति तथा ।

पराङ्वै स्वर्गो लोकः ।

पराञ्च एतं स्वर्गं लोकं रोहाम ।

प्रत्यवरोहस्स यद्र थन्तरं माध्यन्दिने स्यात् ।

अथैवमप्रत्यवरूढमिति वदन्तः ।

तदु ह तत्पराङिवानायुष्यमिव ।

स य एनांस्तथा चक्रुषोऽनुव्याहरेदिति वेति वा भविष्यन्तीति तथा हैव स्युः ।

तस्मादु बृहदेव पृष्ठं स्यान्माध्यन्दिने रथन्तरम् ।

तस्यैषा तनूः ।

सैषा समीची क्ळ्प्ति स्वर्ग्या ४३६