स वा एषोऽतिरात्र ऋते षोडशिन एकविंशतिं चैकविंशान्सम्पद्यत एकां च स्तोत्र्याम् ।
ततो य एकविंशतिरेकविंशा आदित्य एव सः ।
आदित्यस्य वा अमुष्य लोकस्यैश्वर्यमाधिपत्यम् ।
गच्छन्त्यमुष्य लोकस्यैश्वर्यमाधिपत्यं य एवं वेद ।
स यदत्र षोडशिनं कुर्युर्द्वाविंशतिश्चैकविंशास्सम्पद्येरन्नेका च स्तोत्र्या ।
सम्पदं लोभयेत् ।
स उ एवैकान्नपञ्चाशतं त्रिवृतोऽभिसम्पद्यत एकां च स्तोत्र्याम् ।
ततो य एकान्नपञ्चाशतं त्रिवृतोऽग्निरेव सः ।
अग्नेर्वा अस्य लोकस्यैश्वर्यमाधिपत्यम् ।
गच्छत्यस्य लोकस्यैश्वर्यमाधिपत्यं य एवं वेद ।
स यदत्र षोडशिनं कुर्युरेकपञ्चाशच्च त्रिवृतस्सम्पद्येरंश्चतस्रश्च स्तोत्र्याः ।
सम्पदं लोभयेयुः ।
नैवेतरां सम्पदमुपपद्येत नेतराम् ।
देवतीर्थं वा एतद्यदेष वैश्वानरः प्रायणीयोऽतिरात्रः ।
तस्मिन्नेष स्थाणुः क्रियते यत्षोडशी ।
वैराजो वै षोडशी विराजि विराजि प्रतिष्ठितः ।
स यत्रैवैतं विराजं सम्पद्यमानं मन्येत तदेवैतेन स्तोतव्यम् ४३५