तस्य वा एतस्याग्निष्टोमस्य सोक्थकस्य द्वे त्रयः पञ्चाशे शते स्तोत्रिया भवन्ति ।
अथ रात्रेस्सह राथन्तरेण सन्धिनैकान्ननवतिशतं स्तोत्रिया भवन्ति ।
त्रीणि तानि पुंसोऽतिरिक्तानि यैस्स प्रजनयति द्वे ते स्त्रिया ऊने यतस्सा प्रजायते ।
पुंसो वा एतद्रू पं यदह स्त्रियै रात्रिः ।
तदिदं पुंसोऽतिरिक्तममुष्मिन्स्त्रिया ऊने दधाति मिथुनत्वाय प्रजननाय ।
प्र मिथुनेन जायते य एवं वेद ।
अथ ये द्वे स्तोत्र्ये अतिरिच्येते आण्डावेव तावतिरिच्येते ।
ते बृहद्र थन्तरे युक्ते यज्ञं वहतः ।
स यत्र षोडशिनं कुर्युरर्शो वैषां जायेत वर्ध्म वा ।
यद्ध्येतेषु त्रिषु पुंसोऽतिरिक्तेषूप चतुर्थं जायेतार्शो वास्याजनि वर्ध्म वेति ब्रूयुः ।
एवमेव यत्स्त्रियै जायेत ।
स योऽत्र षोडशिनं कुर्वाणान्ब्रूयादर्शो वैषां जनिष्यते वर्ध्म वेति तथा हैव स्युः ।
तस्मादत्र षोडशी न कार्यः ४३४