तस्य गायत्रमेव हिङ्कारो रथन्तरं प्रस्तावो वामदेव्यमुद्गीथो बृहत्प्रतिहारो यज्ञायज्ञीयं निधनम् ।
एकैकमु ह वा एतेषां स्वर्गस्य लोकस्येशे ।
अश्नुते स्वर्गं लोकं य एवं वेद ।
अथो हैतदेवार्क्यमेतन्महाव्रतम् ।
तस्य गायत्रमेव शिरो बृहद्र थन्तरे पक्षौ वामदेव्यमात्मा यज्ञायज्ञीयं पुच्छम् ।
स यावदर्क्यवता महाव्रतवतावरुन्द्धे तावदवरुन्द्धे य एवं वेद ।
अथो हैषायुष्यैव क्ळ्प्तिः ।
आयुर्वै गायत्रं विश्वायू रथन्तरं समायुर्वामदेव्यं सर्वायुर्बृहदत्यायुर्यज्ञायज्ञीयम् ।
आयुष्मन्तो ह भवन्त्येनया तुष्टुवानाः ।
अथो हैषामेतान्येव पञ्च ज्योतींषिद्धान्येषु लोकेषु दीप्यन्तेऽग्निः पृथिव्यां वायुरन्तरिक्ष आदित्यो दिवि चन्द्र मा नक्षत्रेषु विद्युदप्सु ।
अग्निरेव रथन्तरस्य वायुर्वामदेव्यस्यादित्यो बृहतश्चन्द्र मा गायत्रस्य विद्युद्यज्ञायज्ञीयस्य ।
आपो हि यज्ञायज्ञीयम् ।
एतान्येव पञ्च ज्योतींषीद्धान्येषु लोकेषु दीप्यन्ते ४३३