४३२

अथैष वैश्वानरः प्रायणीयोऽतिरात्रः ।

तस्यैषोर्ध्वा क्ळ्प्ति स्वर्ग्या ।

तस्य रथन्तरं पृष्ठं भवति वामदेव्यं मैत्रावरुणसाम बृहदार्भवे पवमाने ।

इदं वै रथन्तरमन्तरिक्षं वामदेव्यमद एव बृहत् ।

सैषोर्ध्वा क्ळ्प्ति स्वर्ग्या ।

तया हैतया कॢप्त्योर्ध्वं स्वर्गं लोकं रोहन्ति ।

अथो हैषामेतदेव साम क्ळ्प्तं कृत्स्नं युक्तं यज्ञं वहति ४३२