४३१

ते सतिसदो ह वा अन्ये सत्रसदोऽन्ये ।

सत्येवान्ये सीदन्ति सत्रमन्य आसते ।

ते हैव सतिसदो य एवं विद्वांसो दीक्षन्ते ।

एतासु हि देवतासु सति सीदन्तो यन्ति ।

ते ह ते सर्वं पाप्मानमपघ्नते ।

अथ य एते शिखाच्छिन्नाः प्रसर्पमिच्छमाना आवेष्टन्ते ते हैव सत्रसदः ।

य एवं विद्वांसमुपवदति यथैता देवता ऋत्वानीयादेवं नेत्येतासु ह्येवैनं देवतासु प्रपन्नमेतासु वसन्तमुपवदति तस्य हैतस्य नैव का चनार्तिरस्ति य एवं वेद ।

य एवैनमुपवदति स आर्तिमार्च्छति ।

तानि वा एतानि संवत्सरस्य दशैवाहान्यतिरात्रावारम्भणीयमहाव्रतीये अहनी पृष्ठ्याभिप्लवौ विश्वजिदभिजितौ स्वरसामानश्च विषुवांश्च ।

प्रवतिर्ह कौशान्तेयः कुसुर्बिन्दस्यौद्दालकेर्ब्रह्मचार्यास ।

तं होवाच सोम्य सूतपुत्र कति ते पिता संवत्सरस्याहान्यमन्यतेति ।

दशेति होवाच ।

दश वावेति होवाच दशाक्षरा विराडन्नं विराड्वैराजो यज्ञः ।

कत्येवामन्यतेति ।

नवेति होवाच ।

नव वावेति होवाच ।

नव वै पुरुषे प्राणाः ।

प्राणैरु यज्ञस्तायते ।

कत्येवामन्यतेति ।

आष्टाविति होवाच ।

अष्टौ वावेति होवाच ।

अष्टाक्षरा गायत्री ।

गायत्रो यज्ञः ।

कत्येवामन्यतेति ।

सप्तेति होवाच ।

सप्त वावेति होवाच ।

सप्त वै छन्दांसि छन्दोभिर्यज्ञस्तायते ।

कत्येवामन्यतेति ।

षडिति होवाच ।

षड्वावेति होवाच ।

षड्वा ऋतवस्संवत्सरः ।

संवत्सरो यज्ञः ।

कत्येवामन्यतेति ।

पञ्चेति होवाच ।

पञ्च वावेति होवाच ।

पाङ्क्तो यज्ञः ।

पाङ्क्ताः पशवः ।

पशवो यज्ञः ।

कत्येवामन्यतेति ।

चत्वारीति होवाच ।

चत्वारि वावेति होवाच ।

चतस्रो दिशश्चतुष्पदाः पशवश्चत्वारि छन्दांसि यज्ञवाहो गायत्री त्रिष्टुब्जगत्यनुष्टुप् ।

कत्येवामन्यतेति ।

त्रीणीति होवाच ।

त्रीणि वावेति होवाच ।

त्रिषवणो यज्ञस्त्रयः प्राणापानव्यानास्त्रय इमे लोकाः ।

कत्येवामन्यतेति ।

द्वे इति होवाच ।

द्वे वावेति होवाच ।

अहोरात्रावेवेति ।

द्वाविमौ लोकावाविष्टमाविव द्वौ प्राणापानौ द्विपात्पुरुषः ।

कत्येवामन्यतेति ।

एकमिति होवाच ।

एकं वावेति होवाच ।

अहरेवेति ।

तदिदमहरभूदह श्वो भविता ।

तदेतदहरहरित्येव प्रोच्यते ।

सा हैषा संवत्सरस्य प्रतिष्ठा यदहः ।

स यो हास्यतां प्रतिष्ठां वेद प्रतितिष्ठति ।

एषो एवास्यैकता ।

स यो हास्यैतामेकतां वेदैकधा हैनं भूत्वा श्रीस्सचते ।

तदाहुर्भूतं भूया३भविष्या३दिति ।

भूतमेव भूयो भविष्यत इति ब्रूयात् ।

भूता इमे लोका भूतोऽयमग्निर्वायुरसावादित्य इन्द्र श्चन्द्र माः ।

एते वै भूतस्य भविष्यतश्चेशते ।

तस्माद्भूतमेव भूयो भविष्यत इति ४३१