ते सतिसदो ह वा अन्ये सत्रसदोऽन्ये ।
ते यां प्रायणीयमतिरात्रमुपेत्य वसन्त्यस्मिन्नेव तां लोके वसन्ति ।
तद्यदस्मिल्ँ लोकेऽन्नाद्यं तदेव तेनावरुन्धते ।
अथो ह विद्युरस्मिन्निदमेतर्हि लोके स्मस्तेषां नो न का चनार्तिरस्तीति ।
अथ यामारम्भणीयमहरुपेत्य वसन्ति संवत्सर एव तां स्वर्गे लोके वसन्ति ।
तद्यत्संवत्सरे स्वर्गे लोकेऽन्नाद्यं तदेव तेनावरुन्धते ।
अथो ह विदुस्संवत्सर इदमेतर्हि स्वर्गे लोके स्मस्तेषां नो न का चनार्तिरस्तीति ।
अथ यामभिप्लवमुपेत्य वसन्ति ब्रह्मण्येव तां वसन्ति ।
तद्यद्ब्रह्मण्यन्नाद्यं तदेव तेनावरुन्धते ।
अथो ह विद्युर्ब्रह्मणीदमेतर्हि स्मस्तेषां नो न का चनार्तिरस्तीति ।
अथ यां पृष्ठ्यमुपेत्य वसन्ति क्षत्र एव तां वसन्ति ।
तद्यत्क्षत्रेऽन्नाद्यं तदेव तेनावरुन्धते ।
अथो ह विद्युः क्षत्र इदमेतर्हि स्मस्तेषां नो न का चनार्तिरस्तीति ।
अथ यां अभिजितमुपेत्य वसन्त्यग्नावेव तां वसन्ति ।
तद्यदग्नावन्नाद्यं तदेव तेनावरुन्धते ।
अथो ह विद्युरग्नाविदमेतर्हि स्मस्तेषां नो न का चनार्तिरस्तीति ।
अथ यां स्वरसाम्न उपेत्य वसन्ति विश्वेषु एव तां देवेषु वसन्ति ।
तद्यद्विश्वेषु देवेष्वन्नाद्यं तदेव तेनावरुन्धते ।
अथो ह विद्युर्विश्वेष्विदमेतर्हि देवेषु स्मस्तेषां नो न का चनार्तिरस्तीति ।
अथ यां विषुवतमुपेत्य वसन्त्यादित्य एव तां वसन्ति ।
तद्यदादित्येऽन्नाद्यं तदेव तेनावरुन्धते ।
अथो ह विद्युरादित्य इदमेतर्हि स्मस्तेषां नो न का चनार्तिरस्तीति ।
अथ यां विश्वजितमुपेत्य वसन्तीन्द्र एव तां वसन्ति ।
तद्यदिन्द्रे ऽन्नाद्यं तदेव तेनावरुन्धते ।
अथो ह विद्युरिन्द्र इदमेतर्हि स्मस्तेषां नो न का चनार्तिरस्तीति ।
अथ यां गोआयुषी उपेत्य वसन्त्यहोरात्रयोरेव तां वसन्ति ।
तद्यदहोरात्रयोरन्नाद्यं तदेव तेनावरुन्धते ।
अथो ह विद्युरहोरात्रयोरिदमेतर्हि स्मस्तेषां नो न का चनार्तिरस्तीति ।
अथ यां द्वादशाहस्याहान्युपेत्य वसन्ति लोकेष्वेव तां वसन्ति ।
तद्यल्लोकेष्वन्नाद्यं तदेव तेनावरुन्धते ।
अथो ह विद्युर्लोकेष्विदमेतर्हि स्मस्तेषां नो न का चनार्तिरस्तीति ।
अथ यां महाव्रतीयमहरुपेत्य वसन्ति प्रजापतावेव तां वसन्ति ।
तद्यत्प्रजापतावन्नाद्यं तदेव तेनावरुन्धते ।
अथो ह विद्युः प्रजापताविदमेतर्हि स्मस्तेषां नो न का चनार्तिरस्तीति ।
अथ यां उदयनीयमतिरात्रमुपेत्य वसन्त्यमुष्मिन्नेव तां लोके वसन्ति ।
तद्यदमुष्मिल्ँ लोकेऽन्नाद्यं तदेव तेनावरुन्धते ।
अथो ह विद्युरमुष्मिन्निदमेतर्हि लोके स्मस्तेषां नो न का चनार्तिरस्तीति ४३०