अथाधिदैवतम् ।
अयमेव लोकः प्रायणीयोऽतिरात्रः ।
तस्य यच्छुक्लं तदह्नो रूपं यत्कृष्णं तद्रा त्रेश्चित्राण्येव नक्षत्राणाम् ।
संवत्सर एव स्वर्गो लोक आरम्भणीयमहर्ब्रह्माभिप्लवः क्षत्रं पृष्ठ्योऽग्निरभिजिद्विश्वे देवा स्वरसामान आदित्यो विषुवानिन्द्रो विश्वजिदहोरात्रे एव गोआयुषी लोका एव द्वादशाहस्याहानि प्रजापतिरेव महाव्रतीयमहरसावेव लोक उदयनीयोऽतिरात्रः ।
इदमह्नो रूपमिदं रात्रेर्नक्षत्राण्येव नक्षत्राणाम् ४२९