ते मनोमयाः प्राणमयाश्चक्षुर्मयाः श्रोत्रमया वाङ्मया ऋङ्मया यजुर्मयास्साममया ब्रह्ममया हिरण्मया अमृतास्सम्भवन्ति ।
देवासुरा अस्पर्धन्त ।
ते देवाः प्रजापतिमुपाधावञ्जयामासुरानिति ।
सोऽब्रवीन्न वै मां यूयं वित्थ नासुराः ।
यद्वै मां यूयं विद्यात ततो वै यूयमेव स्यात परासुरा भवेयुरिति ।
तद्वै ब्रूहीत्यब्रुवन् ।
सोऽब्रवीत्पुरुषः प्रजापतिस्संवत्सर इति मोपाद्ध्वम् ।
ततो वै यूयमेव भविष्यथ परासुरा भविष्यन्तीति ।
तं पुरुषः प्रजापतिस्संवत्सर इत्युपासत ततो वै देवा अभवन्परासुराः ।
स यो हैवं विद्वान्पुरुषः प्रजापतिस्संवत्सर इत्युपास्ते भविष्यत्यात्मना परास्य द्विषन्भ्रातृव्यो भवति ४२८