पुरुषं वावैतदासते यत्संवत्सरम् ।
पुरुषो वै प्रजापतिः प्रजापतिस्संवत्सरः ।
तमेवैतदीप्सन्त आसत आत्मानं यज्ञं कृत्वा ।
तस्य पादावेव प्रायणीयोऽतिरात्रः ।
तयोर्यदधस्ताच्छुक्लं तदह्नो रूपं यदुपरिष्टात्कृष्णं तद्रा त्रेर्नखान्येव नक्षत्राणामिमान्येव चत्वार्यूर्वष्ठीवानि आरम्भणीयमहरयमभिप्लवोऽयं पृष्ठ्योऽयमितोऽर्वाचीनोऽभिजिदयं विश्वजिदिमे त्रय स्वरसामान इमे त्रयोऽयं विषुवानिदं महाव्रतीयमहरयमुदयनीयोऽतिरात्रः ।
इदमह्नो रूपमिदं रात्रेर्नखान्येव नक्षत्राणाम् ।
तमेतं पुरुषं प्रजापतिं संवत्सरमाप्नुवन्त्यात्मानमेव यथाङ्गम् ४२७