अथ यद्वोऽवोचं ग्रामात्स्मारण्यं मेतेत्याहार्याणि स्म सामानि माभिध्यायतेत्येव वस्तदवोचमिति ।
स यथा ग्रामाद्ग्रामं संव्रजेदबिभ्यदेवं तद्यदग्निष्टोमसामानि ।
अथ यथारण्यादरण्यं यन्स कण्टकेन वा शलाकया वा परितृण्ण आगच्छेदथो इयतो नोऽव्यात्सुरियन्तो वि विध्यमानानाममुक्ष्महीत्येवं तद्यदाहार्याणि सामानि ।
तस्मादाहार्याणां साम्नां नाशयितव्यानि ।
अथ यद्वोऽवोचं ज्ञानात्स्माविर्भवान्मेतेति सुज्ञानमेव वस्तदवोचमिति ।
अथ यद्वोऽवोचं दैव्यात्स्म विवाहान्मेतेति श्यैतनौधसे एव वस्तदवोचमिति ।
अथ यद्वोऽवोचं यज्ञात्स्म मेतेति श्रद्धा स्म वो मा व्यैदित्येव वस्तदवोचमिति ।
एषा ह वै देवानां राज्ञि यच्छ्रद्धा ।
सैषा प्रातरुपक्रम्य तिष्ठति ।
तां देवा उपतिष्ठन्ते याद्री च्येष्यति तद्र य्ञ्च एष्याम इति ।
तस्यै सर्वे देवा अनुवर्त्मानस्सायं जुषन्ते ।
तमाविशति स जुहोति स यजते ।
तद्देवा उपजीवन्ति ।
एतां हैभ्यस्तत्संवत्सरेऽरिष्टिमुवाच ।
ते य एवं विद्वांसस्संवत्सरमुपयन्ति स्वस्त्येवारिष्टा उदृचमश्नुवते ४२६