४२५

अथ यद्वोऽवोचं वाचं स्म सत्यवतीमुपेतेति पुरोजिती वो अन्धस इत्येतामेव वस्तदनुष्टुभमवोचमिति ।

एषा वै वाक्सत्यवती यदेषानुष्टुप् ।

अनुष्टुप्पूर्वा भवति गायत्र्या उत्तरे ।

वाग्वा अनुष्टुप्प्राणो गायत्री ।

एतद्वै वाचस्सत्यं यत्प्राणः ।

सैषा वाक्सत्यवती ।

अथो यथान्यौ नवतरौ चक्रावुपास्येदेवमेवैतामनुष्टुभं त्र्यहमुखेषु पर्याहरन्ति स्वर्गस्य लोकस्य समष्ट्यै ।

तस्मादेषैवानुष्टुप्कार्या ।

अथ यद्वोऽवोचं वर्षिष्ठान्स्माजौ युङ्ग्ध्वमित्यग्निष्टोमसामान्येव वस्तदवोचमिति ।

एते ह वै वर्षिष्ठा आजौ युज्यन्ते यदग्निष्टोमसामानि यानि वै तान्यक्ष्यन्त्यहानि ।

अथ यद्वोऽवोचमुत्तरावतीं स्म श्रियमुपेतेति पृष्ठान्येव वस्तदवोचमिति ।

एषा ह वा उत्तरावती श्रीर्यत्पृष्ठानि त्रिवृत्पञ्चदशं सप्तदशमेकविंशं त्रिणवमित्या त्रयस्त्रिंशादुत्क्रामन्ति ।

अथ यद्वोऽवोचं स्वर्गे स्म लोके प्रतितिष्ठतेति यज्ञायज्ञीयं स्म वोऽग्निष्टोमसामास्त्वित्येव वस्तदवोचमिति ।

एष ह वै स्वर्गो लोको यद्यज्ञायज्ञीयमसावादित्य एकविंशः ।

एतस्मिन्नेव तत्स्वर्गे लोकेऽन्ततः प्रतितिष्ठन्ति ४२५