अथ ह स्माह नगरी जानश्रुतेयो वृकस्य चरतस्सर्पणमिति ।
को वृक इति ।
प्रजापतिरिति ।
कः प्रजापतिरिति ।
संवत्सर इति ।
तस्य किं सर्पणमिति ।
अहोरात्रे इति ।
के अहोरात्रे इति ।
बृहद्र थन्तरे इति ।
एताभ्यां ह वा एष एतत्सर्पति ।
तौ प्राणापानौ ताविमौ लोकौ यद्दैव्यं मिथुनम् ।
तौ हैतत्संवत्सरस्यैव पादावारभ्य यन्ति ।
ते स्वस्त्यरिष्टा उदृचमश्नुवते ।
अथ यद्वोऽवोचमच्युतं स्म यज्ञस्य मा च्यावयतेति वामदेव्यमेव वस्तदवोचमिति ।
एतद्ध वै यज्ञस्याच्युतं यद्वामदेव्यम् ।
प्राणो हि वामदेव्यम् ।
प्राणान्नेदवच्छिद्यामहा इति ।
अथ यद्वोऽवोचं यज्ञस्य स्म श्वस्तनमुपेति गौरिवीतमेव वस्तदवोचमिति ।
एतद्ध वै यज्ञस्य श्वस्तनं यद्गौरिवीतं प्रजा श्वस्तनं पशव श्वस्तनं स्वर्गो लोक श्वस्तनम् ।
स यथा क्षेत्रज्ञो ग्रामं यापयेददस्सुगं तेन यास्यामोऽदस्सुतीर्थं तेन तरिष्यामोऽदस्सुवसं तद्वत्स्याम इत्येवमेतौ गौरिवीतस्योदासाववसानदर्शौ चरतः ।
अथो यथा सोमप्रवाकस्सोमं प्राहैवमेतौ गौरिवीतस्योदासौ देवेभ्यस्सोमं प्राहतुः ।
प्रोक्तसोमो ह स तां रात्रिं वसति यस्मिनहनि गौरिवीतं भवति ।
अथो हैनं देवा ईक्षन्ते धावत श्वो यष्टेति ।
तद्यदेकाहे गौरिवीतं न कुर्वन्ति नेद्देवाल्ँ लापयामहा इति ४२४