अथ यद्वोऽवोचं प्रस्पष्टात्स्म सार्थान्मा हीयध्वमिति बृहद्र थन्तरे एव वस्तदवोचमिति ।
एष ह वै प्रस्पष्टः सार्थो यद्बृहद्र थन्तरे ।
एते ह वा एतान्यरण्यान्यतिनयतो यान्येतानि सवनारण्यानि ।
तदेतद्षड्ग्राममिति त्रिवृत्स्तोमः ।
अस्ति परस्तरामिति पञ्चदशः ।
अस्ति परस्तरामिति सप्तदशः ।
अस्त्येव परस्तरामित्येकविंशः ।
श्रान्त एनद्गच्छेदिति त्रिणवः ।
आसायैनदिति त्रयस्त्रिंशः ।
अथ यथैकां वा द्वे वान्तरोष्यैव तद्यच्छन्दोमाः ।
क्षत्रं वा एते साम्नां यद्बृहद्र थन्तरे ।
क्षत्रिय उ वा अरण्यस्यातिनेता ।
तद्यत्र वै क्षत्रेणारण्येनैति यो वै तत्र तं दस्युर्जानाति यद्यत्स्याल्वं वा मधु वा भवति तेनास्मा आविर्भवति ।
अथ येऽन्ये नंष्ट्राः परिपन्थिनः पराञ्चस्ते कक्षं गहनान्यभ्यवयन्ति ।
स यथा क्षत्रियेण सहाबिभ्यदरण्यमतीयादेवमेवैतद्बृहद्र थन्तराभ्यामतियन्ति ।
अथो एष वाव देवयानः पन्था यत्पृष्ठ्यष्षडहः ।
ते देवा एतेन देवयानेन पथैतं स्वर्गं लोकं गत्वान्वागमान्मनुष्याणामबिभयुः ।
ते होचुरुप तज्जानीत यथा नो मनुष्या नान्वागच्छानिति ।
त एतान्यज्ञमुहो रक्षांसि प्रत्यौहन् ।
तद्यद्दीक्षितो मीयते यद्रुध्यते एते हैव तत्कुर्वन्ति ।
तद्बृहद्र थन्तरे एवातिनयतः ।
तान्यानेते घ्नन्त्यनेत्रान्हैव तान्घ्नन्ति ये बृहद्र थन्तरे अवसृजन्ति ।
तस्माद्बृहद्र थन्तरे नावसृज्ये ४२३