४२२

अथ यद्वोऽवोचं संवत्सरस्य स्म व्याप्तमतिप्लवध्वमित्यभीवर्तं वा स्म पवमाने कुरुध्वं प्लवं वेत्येव वस्तदवोचमिति ।

एतद्ध वै संवत्सरस्य व्याप्तं यदृतवो यन्मासा यदृतुसन्धयः ।

तदु वा आहुर्य ऋतवो ये मासा य ऋतुसन्धयोऽहोरात्रे वाव तद्भवतः ।

अहोरात्रे वाव संवत्सरस्य व्याप्तमिति ।

तत्प्लवः कार्यः ।

अव वै गौः प्लवतेऽव हस्त्यव पुरुषः प्लवो नावप्लवते ।

तदेतेन प्लवेनानवप्लाविनैतत्संवत्सरस्य व्याप्तमतिप्लवामहा इति ।

तदाहुरस्ति परिचक्षा प्लवातिप्लिता इति वै निन्दन्ति ।

यो वै जीयते यो हीयते तमाहुरप्लोष्टेति ।

अभीवर्त एव कार्यः ।

तस्यैकाक्षरं निधनं भवति ।

एकाक्षरा वै वाक् ।

वागु कृत्स्नं ब्रह्म ।

तदेतेन कृत्स्नेन ब्रह्मणा यथा चर्मणा कुदीकण्टकान्प्रावृत्यातीयादेवमेवैतत्संवत्सरस्य व्याप्तं प्रावृत्यातियन्ति ।

अथो यथा तप्तान्पांसूनुपानह्यतीयात्तादृक्तत् ।

तस्मादभीवर्त एव कार्यः ।

अथ यद्वोऽवोचं दैव्यं स्म मिथुनमुपेतेत्युच्चा ते जातमन्धसा स्वादिष्ठया मदिष्ठयेत्येते एव वस्तद्गायत्र्याववोचमिति ।

एतद्वै दैव्यं मिथुनं यदेते गायत्र्या उच्चा त इति पुंसो रूपं स्वादिष्ठयेति स्त्रियै ।

तदेतन्मिथुनं प्रजननं क्रियते ।

प्र मिथुनेन जायते य एवं वेद ।

तस्मादेते एव गायत्र्यौ कार्ये ४२२