४२१

अथ यद्वोऽवोचं चतुश्चक्रं स्म पारयिष्णुं समारोहतेति प्र सोम देववीतये परीतो षिञ्चता सुतमभि सोमास आयवः पुनानस्सोम धारयेत्येता एव वस्तच्चतस्रो बृहतीरवोचमिति ।

एष ह वै चतुश्चक्रः पारयिष्णुर्यदेता बृहत्यः ।

स यथा चतुश्चक्रेण पारयिष्णुना यत्र जिगमिषेत्तद्गच्छेदेवमेवैताभिर्बृहतीभि स्वर्गं लोकं गच्छन्ति ।

अथो एष वाव देवरथः ।

स यथा देवरथेन सुयुक्तेन यत्र जिगमिषेत्तद्गच्छेदेवमेवैताभिर्बृहतीभि स्वर्गं लोकं गच्छन्ति ।

तस्मादेता एव बृहतीः कार्याः ।

अथ यद्वोऽवोचं स्वर्गस्य स्म लोकस्य पथोऽञ्जसायनान्मेतेत्यौशनकावे एव वस्तदवोचमिति ।

एष ह वै स्वर्गस्य लोकस्य पन्था अञ्जसायनो यदौशन्कावे ।

औशनं पुरस्ताद्भवति कावमुपरिष्टात् ।

तावेतत्पितापुत्रावेव नावमजतः ।

स यथा पितापुत्रौ नावमजन्तौ तामरिष्टां स्वस्ति पारं गमयेयातामेवमेवैतदौशनकावाभ्यां स्वस्त्यरिष्टा उदृचमश्नुवते ।

तस्मादौशनकावे नावसृज्ये ४२१