स होवाच यद्वोऽवोचं षट्सु स्म प्रतिष्ठासु प्रतितिष्ठेति निधनवन्ति स्म पवमानमुखेभ्यो मा च्यावयतेत्येव वस्तदवोचमिति ।
एषा ह वै साम्नः प्रतिष्ठा यन्निधनम् ।
षडेतानि निधनवन्ति भवन्ति षडृतवस्संवत्सरः ।
स यथा वृक्षमाक्रमणैराक्रममाण इयादेवमेवैतैस्सामनिधनै स्वर्गं लोकं रोहन्तो यन्ति ।
तस्मान्निधनवन्ति पवमानमुखेभ्यो न च्यावयितव्यानि ।
अथ यद्वोऽवाचं षड्भ्य स्म हरित्मतीभ्यो मेतेतीळाविभक्तिरेव वस्तदवोचमिळाभि स्म बृहतीरारभध्वमित्येव वस्तदवोचमिति ।
ता एताष्षड्ढरित्मतीः ।
स यथा षड्ढरित्मतीरश्वतरीस्संयुज्य यत्र जिगमिषेत्तद्गच्छेदेवमेवैताभिरिळाविभक्तिभि स्वर्गं लोकमभ्यश्नुवते ।
तस्मादिळाभिरेव बृहतीरारभ्याः ४२०