अहीनसं हाश्वत्थिं पुत्रा उपसमेत्योचुस्सत्रायामो वै भगवोऽनु नश्शाधीति ।
स होवाच मैवं वोचत ।
दुरुपधर्षो वै संवत्सरः ।
यथा वै रथनाभावराः प्रतिष्ठिता एवं वै संवत्सरे सर्वे मृत्यवः प्रतिष्ठिताः ।
अथैतदेवं ब्रूथेति ।
ते होचुस्तेषां वै त्वमेव भिषगसि त्वं प्रायश्चित्तिरन्वेव नश्शाधीति ।
तद्धास्य प्रियमास ।
स होवाचैवं चेद्ब्रूथ षट्सु स्म प्रतिष्ठासु प्रतितिष्ठत ।
षड्भ्य स्म हरित्मतीभ्यो मेत ।
चतुश्चक्रं स्म पारयिष्णुं समारोहत ।
स्वर्गस्य स्म लोकस्य पथोऽञ्जसायनान्मेत ।
संवत्सरस्य स्म व्याप्तमतिप्लवध्वम् ।
दैव्यं स्म मिथुनमुपेत ।
प्रस्पष्टात्स्म सार्थान्मा हीयध्वम् ।
अच्युतं स्म यज्ञस्य मा च्यावयत ।
यज्ञस्य स्म श्वस्तनमुपेत ।
वाचं स्म सत्यवतीमुपेत ।
वर्षिष्ठान्स्माजौ युङ्ग्ध्वमुत्तरावतीं स्म श्रियमुपेत ।
स्वर्गे स्म लोके प्रतितिष्ठत ।
ग्रामात्स्मारण्यं मेत ।
ज्ञानात्स्माविर्भवान्मेत ।
दैव्यात्स्म विवाहान्मेत ।
यज्ञात्स्म मेतेति ।
एतानि हैनाननुशशास ।
ते होचुरनु न इदमशिषः परोक्षेणेव ।
तथा नोऽनुशाधि यथेदं विजानीयामेति ४१९