४१८

आसन्दीमुद्गाताधिर्हति प्लेङ्खं होता कूर्चावध्वर्यू कूर्चसद एवान्या होत्रा भवन्ति ।

तदाहुर्न दीक्षितेनासन्द्यधिरुह्येति ।

उत्थिता ह खलु वा एतदहरागच्छन्ति ।

यद्वावादो दशममहस्तदेवोक्थानि ।

इयमधिरुह्यैवेत्याहुः ।

अन्तरिक्षसाच्येव वै श्रीः ।

एवं श्रिया उपाप्तिरिति ।

वाणश्शततन्त्रीर्भवति ।

शतायुर्वै पुरुषश्शतेन्द्रि यश्शतवीर्यस्तस्यैवेन्द्रि यस्य वीर्यस्यावरुद्ध्यै ।

तदाहुर्न वाणश्शततन्त्रीः कार्यो यर्हि वा एतस्य ब्राह्मणास्सन्तानमविदुस्सकृत्सन्ततो वा एष तर्हि राज्ञां सभासु प्रविशामि ब्रुवन्नशयत्तं किं तत्कुर्युर्यस्तथैतर्हि न यथा पुरेति ।

तदु वा आहुः किं खलु तथैतर्हि यथा पुरा ।

एकसाम्ना ह स्म वै पुरा स्तुत्वा स्वर्गं लोकं गच्छन्त्यथो अवभृथादेवोदेत्य कार्यः ।

एवं वाणश्शततन्त्रीर्वाचः कृत्स्नत्वायेति ।

तस्यैष सन्तानो भूर्भुव स्वर्वदा वदा वदा वदी वदा वदोरुः पृथुस्सुगस्सुगन्तुः कर्मः करणः करः करिष्यन्नैन्द्रीं वाचं बृहतीं विश्वरूपां शतायुषं प्रवद देव वाणेति ।

अथेन्द्रे णतया चेषीकया वेतसशाखया चोल्लिखति मनो ज्योतिरिति वाक्सत्यमिति मनो भद्र इति ४१८