४१७

तस्मिन्भद्रं सामाध्यूहन्ति ।

प्रजा वै भद्र म् ।

पुच्छतो वै प्रजाः प्रजायन्ते ।

पुच्छत एवैतत्प्रजनने प्रजां दधते प्रजात्यै ।

तत्रापि श्रेयः कार्यमाहुः ।

प्रजा वै भद्रं प्रजायै या प्रजा सा श्रेयः ।

अपि ह प्रजायै प्रजां पश्यते य एवं वेद ।

तदाहुस्सकृदेव सर्वेण स्तोतव्यं वयसोऽनुरूपं कृत्वेति ।

यद्वै वयः प्रपतति सर्वाण्यङ्गानि नानाशो युक्त्वा प्रपतति ।

अथ यदुपविशति सर्वाण्यङ्गान्यात्मानमुपसमाहृत्योपविशतीति ।

तद्यत्सकृदेव सर्वेण स्तुवन्ति यथा वयः प्रपतत्सर्वाण्यङ्गानि नानाशो युक्त्वा प्रपतेत्तादृक्तत् ।

अथ यदेकैकया स्तुतयोपसमायन्ति यथा वय उपविशत्सर्वाण्येवाङ्गान्यात्मानमुपसमाहृत्योपविशेत्तादृगु तत् ।

अथ ह स्माह भाल्लबेयो नैतस्मिन्नहन्नन्य उद्गातुस्साम्नार्त्विज्यं कुर्यात् ।

श्रीर्वा एतदहः श्रीरुद्गाता ।

यदेतस्मिन्नहन्नन्य उद्गातुस्साम्नार्त्विज्यं कुर्यादनववदितैनानववदेदनभ्यारोढाभ्यारोहेत्पापवस्यसं स्यात्स वैवानुपरिसर्पं संस्थापयेत्स वैकैकया स्तुतयोपसमेयादिति ।

तदिव त्वत्र परिचक्षते यन्नवविंश स्तोमस्सम्पद्यते ।

तदाहुर्नवविंश स्तोमस्सम्पद्यते वाश्यमानानुपतेत्स्वं यूथं जानमेजय गौर्गास्साहस्रयाजिन शलकाण्डाणि विगच्छतीतीव वा एता यथायथमपियन्तीति ।

शिर एव शीर्षन्नाप्येति पक्षौ पक्षे पुच्छं पुच्छ आत्मानमिदात्मन्नाप्येति ।

नवविंश स्तोमस्सम्पद्यते कार्यमेवाप्येवमिति ४१७