त एतेन त्रिवृता स्तोमेन रथन्तरमभ्यायन्ति ।
ब्रह्म वै त्रिवृदन्नं रथन्तरम् ।
ब्रह्मणैव तदन्नाद्यं स्पृण्वन्ति ।
तस्मिन्पञ्चदशं स्तोममध्यूहन्ति ।
वज्रो वै पञ्चदशोऽन्नं रथन्तरम् ।
वज्रेणैव तदन्नाद्यं परिगृह्णन्ति ।
त एतेन पञ्चदशेन सप्तदशमभ्यायन्ति ।
वज्रो वै पञ्चदशो विट्सप्तदशः ।
वज्रेणैव तद्विशं स्पृण्वन्ति ।
तस्मिन्ब्रह्मसामाध्यूहन्ति ।
क्षत्रं वै बृहत् ।
क्षत्रमेव तद्विश्यध्यूहन्ति ।
स तस्मात्क्षत्रियो विश्यध्यूढः ।
तदाहुरितो बृहता स्तोतव्यमितो रथन्तरेणेति ।
प्राणमिव वा इदं सर्वं प्रत्युद्यत्या इति ।
तदु ह स्माह कीजो वाकायनः पृष्ठतो वा एतेऽन्नाद्यं कुर्वते य इतो बृहता स्तुवत इतो रथन्तरेण ।
अन्नं वै रथन्तरम् ।
दक्षिणतो वा अन्नाद्यमवरुद्धमुपाचरति ।
तस्मादित एव बृहता स्तुवत इतो रथन्तरेणान्नाद्यस्यावरुद्ध्या इति ।
य उ एवैष पञ्चदश स्तोमस्स उ प्रत्युद्यत्या इति ।
तस्मादु सव्यं पक्षं वयांस्यनु परिप्लवन्ते ।
त एतेन सर्वेणैकविंशं प्रतिष्ठामायन्ति ।
द्वादश मासाः पञ्चर्तवस्त्रय इमे लोका असावादित्य एकविंशः ।
सर्वस्मिन्वा एषोऽस्मिन्नधि प्रतिष्ठितः ।
तद्यस्मिन्नेष सर्वस्मिन्नधि प्रतिष्ठितस्तस्मिन्सर्वस्मिन्नधि प्रतिष्ठामेत्येतं प्रतिष्ठापयन्ति ४१६