४१५

अथ ह स्माहारुणिर्न वा अन्यान्यङ्गान्यात्मना समानि ।

नोऽन्यैरङ्गैरात्मा समः ।

विषमेण वै पुरुषः कल्पते विषमेण समः ।

तद्यथाविधमेवैतदेवमुपेत्यमिति ।

ब्रह्म वै व्रतस्य शिरो द्यावापृथिवी पक्षावन्तरिक्षमात्मा साम पुच्छम् ।

गायत्रं वै व्रतस्य शिरस्तद्धि ब्रह्म ।

बृहद्र थन्तरे पक्षौ ते हि द्यावापृथिवी ।

वामदेव्यमात्मा तद्ध्यन्तरिक्षम् ।

यज्ञायज्ञीयम्पुच्छं तद्धि साम ।

नवभिश्शिर स्तुवन्ति ।

नव वै पुरुषे प्राणाः ।

प्राणानामेवैषा सम्मा प्राणानामृद्धिः ।

तस्मिन्गायत्रसामाध्यूहन्ति ।

प्राणो वै गायत्रसाम ।

प्राणमेव तच्छीर्षन्दधति ।

तस्माच्छीर्षन्प्राणो हितः ।

ते प्रत्यञ्चो निःसृप्यार्कशीर्षमिति तेन स्तुवते ।

ग्रीवा ह तास्तद्यदिमाल्ँ लोकाननुदाख्यायमिव गायति ।

शिर्तश्चैव तदात्मानं च सन्दधाति ।

तस्माच्छिरश्चात्मा च संहितौ ।

तदाहुरपञ्चविंशं भवत्यतिरिच्यते तस्मादेतदत्र न कार्यमिति ४१५