अस्न्नं वै व्रतं श्रीर्वै व्रतम् ।
व्रतेन वा अन्नमद्यते व्रतेन श्रीराप्यते ।
तदाहुरुपरिष्टादेव संवत्सरस्योपेत्यम् ।
दूरूपं वै ततो व्रतं विज्ञायते यत्रोपजायत इति ।
तत्पञ्चविंशं भवति ।
चतुर्विंशत्यर्धमासो वै संवत्सरोऽन्नाद्यं पञ्चविंशत्यन्नाद्यमेवैतत्पञ्चविंश्योपधीयते ।
पञ्चविंशो ह खलु वै पुरुषः ।
पुरुषस्यैतत्स्तोत्रमित्याहुर्दश वै पुरुषस्य हस्त्या अङ्गुलयो दश पद्याश्चत्वारि प्राङ्गाण्यात्मा पञ्चविंशष्षडिमानि पर्वाणि षडिमानि षडिमानि षडिमान्यात्मा पञ्चविंशो द्वादशेमाः परिशवो द्वादशेमा आत्मैव पञ्चविंशः ।
पुरुषं वावैतेन संस्कुर्वन्ति पुरुषं प्रजनयन्ति ।
तदाहुस्सर्वमेवैतदहः पञ्चविंशमुपेत्यमिति ।
पञ्चविंशमेव शिर उपेयुः पञ्चविंशमन्यं पक्षं पञ्चविंशमन्यं पञ्चविंशं पुच्छं पञ्चविंशमात्मानमेवं व्रतस्योपाप्तिरङ्गेनाङ्गेन व्रतमुपाप्नवामेति ।
तस्मादथ ह स्माहर्ज्जिश्वा वातवात एकं वावैतत्स्तोत्रं सत्तत्पञ्चधा विहृत्य स्तुयुः पञ्चभिरेव शिर स्तुयुः पञ्चभिरन्यं पक्षं पञ्चभिरन्यं पञ्चभिः पुच्छं पञ्चभिरात्मानम् ।
तथैकमेव पञ्चविंशं नातिरिच्यते ।
एवं व्रतस्योपाप्तिरिति ४१४