तद्वैश्वानरीयासु भवति ।
वैश्वानरस्य ह्येतत्स्तोत्रम् ।
अशीत्यक्षरासु भवत्यश्नवामहा इति ।
समुद्र इवाक्षितमिव ह खलु वा एतच्छन्दो यदतिच्छन्दास्समुद्र इवाक्षितास्तुष्टुवाना असामेति ।
तत्पक्षि भवति ।
पक्षि ह्येतस्याह्नो व्रतम् ।
ए व्रतमित्याह अन्नं वै व्रतमन्नाद्यस्यैवावरुद्ध्यै ।
ए सुवरित्याह स्वर्गस्यैव लोकस्य समष्ट्यै ।
ए शकुना इत्याह वय एवैतच्छकुना भूत्वा स्वर्गं लोकं समश्नुवते ।
तदाहुर्वारवन्तीयमेवैतस्याह्नोऽग्निष्टोमसाम कार्यमिति ।
प्रजापतिः पशूनसृजत ।
तेऽस्मात्सृष्टा अपाक्रामन् ।
तान्वारवन्तीयेनैव वरणशाखामाच्छिद्यावारयत ।
यदवारयत तद्वारवन्तीयस्य वारवन्तीयत्वम् ।
तस्माद्वरणं भिषज्यमाहुः ।
तद्यदेतस्याह्नो वारवन्तीयमग्निष्टोमसाम भवति यदनेन कर्मणावारुत्स्महि तन्नो वारवन्तीयेन वारितमन्तत उपतिष्ठाता इति ।
तदेहिवदिहवद्भवत्यन्तस्य रूपम् ।
अन्तो ह्येतदहः ।
तदु वा आहुर्यद्वावान्या वाङ्नातिवदति तदेतस्याह्नोऽग्निष्टोमसाम कार्यम् ।
यज्ञायज्ञीयं वावान्या वाङ्नातिवदति ।
वाग्वै यज्ञायज्ञीयम् ।
कुतो हि वाग्वाचमतिवदिष्यति ।
तस्मादेतस्याह्नो यज्ञायज्ञीयमेवाग्निष्टोमसाम कार्यमिति ४१३