तत्पञ्चस्तोभं भवति पञ्चपदवृत्तीकं पञ्चदेवतं पञ्चप्रतिहारं पञ्चनिधनम् ।
यः पाङ्क्तो यज्ञो ये पाङ्क्ताः पशवो यत्पाङ्क्तमन्नाद्यं ये पञ्चर्तवो यत्किं च पञ्च पञ्च तस्यैषा सर्वस्यर्द्धिस्तस्योपाप्तिः ।
पञ्चनिधनं वामदेव्यं ब्रह्मसाम भवति ।
पञ्चधेव हि व्रतेन स्तुवते ।
तदतिच्छन्दस्सु भवति त्रिकद्रुकेषु महिषो यवाशिरमित्येतासु ।
अति वा एषोऽन्यानि छन्दांसि यदतिच्छन्दाः ।
अत्येतेऽन्यान्ये संवत्सरसदः ।
स्व एवैतच्छन्दसि प्रतितिष्ठन्ति ।
तद्वतिच्छन्दस्स्वेव तदेहिवदिहवद्भवत्यन्तस्य रूपम् ।
अन्तो ह्येतदहः ।
तदाहुरिलान्दमेवैतस्याह्नोऽग्निष्टोमसाम कार्यमिति ।
इलान्देन वै प्रजापतिः प्रजाभ्य इरामन्नाद्यं प्रायच्छत् ।
तद्येन प्रजापतिः प्रजाभ्य इरामन्नाद्यं प्रायच्छत्तेनेरामन्नाद्यमवरुध्योत्तिष्ठामेति ।
तद्वतिच्छन्दस्स्वेव भवति ।
अति वा एषोऽन्यानि छन्दांसि यदतिच्छन्दाः ।
अत्येतेऽन्यान्ये संवत्सरसदः ।
स्व एवैतच्छन्दसि प्रतितिष्ठन्ति ४१२