४११

तदाहुस्तवश्शाव्यमेवैतस्याह्नः पृष्ठं कार्यमिति ।

देवा वै यदग्रे व्रतं समभरंस्तत्तवश्शाव्यमभवत् ।

तद्यदेतस्याह्नस्तवश्शाव्यं पृष्ठं भवति व्रतमेवैतत्प्रत्यक्षमुपयन्ति ।

तदु वा आहुर्दुष्प्रज्ञाना वै तवश्शाव्यस्य स्तोभाः पदवृत्तीः प्रस्तावाः प्रतिहारा देवता निधनानि ।

वामदेव्यमेवैतस्याह्नः पृष्ठं कार्यमिति ।

आत्मा वै व्रतस्य वामदेव्यम् ।

स यथागत्य गृहान्न विन्देत्तादृक्तद्यदेतस्याह्नोऽन्यद्वामदेव्यात्पृष्ठं कुर्युः ।

तदाहु स्वारं न पृष्ठतायै ।

तत्स्थानं राजनमेवैतस्याह्नः पृष्ठं कार्यमिति ।

राजनेन वै प्रजाअतिः प्रजानां राज्यमैश्वर्यमाधिपत्यमगच्छत् ।

तद्येन प्रजापतिः प्रजानां राज्यमैश्वर्यमाधिपत्यमगच्छत्तेन प्रजानां राज्यमैश्वर्यमाधिपत्यं गच्छामेति ।

परोक्षमिव ह खलु वा एतद्वामदेव्यं यद्रा जनम् ।

राजनं पृष्ठं भवति ।

वामदेव्यं मैत्रावरुणसाम ।

पञ्चनिधनं वामदेव्यं ब्रह्मसाम ।

सामाभिपूर्वमेवैतद्वामदेव्येन मध्यत आत्मानं सन्दधतो यन्ति ४११